या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री, ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥१॥ (नान्द्यन्ते)
सूत्रधारः -- (नेपथ्याभिमुखमवलोक्य)
आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् । (प्रविश्य)
नटी - आर्यपुत्र इयमस्मि ।
सूत्रधारः -- आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः।
नटी -- सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते ।
सूत्रधारः -- आर्ये कथयामि ते भूतार्थम् । आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः॥२॥
नटी -- आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः -- किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् ।
सम्प्रति हि - सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः॥३॥
नटी -- तथा । (इति गायति) ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि॥४॥
सूत्रधारः -- आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः ।
नटी -- नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति ।
सूत्रधारः -- आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः ।
तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा॥५॥ (इति निष्क्रान्तौ)