Article Details

प्राचीन-भारतीय-संस्कृतौ वर्णव्यवस्था | Original Article

Maya Yadav*, in Journal of Advances and Scholarly Researches in Allied Education | Multidisciplinary Academic Research

ABSTRACT:

वृञ् वरणे धातोः निष्पन्नस्य वर्णशब्दस्य अर्थः भवति वरणं वरणकरणं वेति । वरणार्थकवृञ्धातोः प्रेरणार्थक वर्णधातोथ अस्य शब्दस्य निष्पत्तिः भवति । अस्य ‘वर्ण’पदस्य अर्थः रङ्गः, रूपरङ्गो वा भवति । यथा भवान् जनाति एव वर्णशब्दस्य अत्र सामान्यः अर्थः जातिः भवति । परन्तु प्राचीने काले रङ्ग एव अभिप्रेतार्थः आसीत् । अयं ब्राह्मण-क्षत्रिय-वैश्य-शूद्रात्मकः चतुर्विधः भवति । एतेषां वर्णानां या दशा, निर्धारितो नियमः विधानं वा भवति, तदेव ‘वर्णव्यवस्था’ नाम्ना व्यवहता भवति । वि अवस्था इत्यस्मिन् पदे ‘आतश्चोपसर्गे’ इत्यङ् ततः टाप्- इति ‘व्यवस्था’ शब्दस्य निष्पत्तिः भवति । यस्यार्थः शास्त्रनिरूपितः विधिः भवति । ‘‘निवर्त्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः’’ इति । व्यवस्था नाम नियमः –